पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१५७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्


यादोभिर्वडवाग्निना जलनिधेर्यावत्पयो गृह्यते
किं तावत्युपयुज्यते शततमोऽप्यंशः पयोद त्वया ।
सौजन्य किमिति ब्रवीमि भवतः सर्वखमित्वं त्यज-
न्ख्यातः ख्याफ्यसे पयोधिमपि तं सर्वोपयोगक्षमम् ॥ ७१ ॥

मेघ: कश्चिदचेतनः कियदपि खीकृत्य सिन्धोः पयः
कीर्तिं तस्य समुच्चिनोति कियतीं धर्मं कियच्छाश्वतम् ।
ब्रह्मज्ञस्तपसां निधिस्त्रिभुवनख्यातश्च कुम्भोद्भवः
सर्वखं विनियुज्य तस्य किमिव श्रेयः समापादयत् ॥ ७२ ॥

यच्छैलेषु यदर्णवेषु यदपि ग्रामाटवीजाङ्गल-
प्रायासु क्षितिषु क्षिपन्ति बहुशस्तोयं वृथा तोयदाः ।
दृष्टिस्तत्र न दीयतां यदि गुणग्राही भवान्यत्पुन-
र्ग्रामेषूपवनेषु वा सकृदमी वर्षन्ति तद्गृह्यताम् ॥ ७३ ॥

ग्रामेष्वेव सुवृष्टयो विनयवत्स्वेव श्रियः पुष्कला
धीमत्स्लेव कलागमव्यसनिता गोष्वेव दुग्धस्थितिः ।
वाग्मिण्वेव विवक्षुतेति च जगत्प्रार्थ्यां व्यवस्थामिमां
किं वेधा विदधे पुरेति शृणुमो रामेऽपि राज्यस्थितिः ॥ ७४॥

उन्भीलन्ति क्रियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे
तत्त्वेतावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च ।
कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं
किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥ ७५॥

विद्धं साधु न साध्विव प्लुतमिदं रेरे कथं विध्यसी-
त्याख्यातुं रणकौशलं वयमपि प्रौढाः स्थिता दूरतः ।
आक्रामन्रणमेदिनीमपि वहन्खङ्गं विकोपं करे
वेत्ति खं च परं च यद्यवहितो विक्रान्तिरेणैव नः ॥ ७६ ॥

अम्भोजेष्वतिकोमलेषु विहरन्नन्तर्जले संविश-
न्नज्ञातातपवातवर्षमनयत्कालं चिरं यः सुखम् ।