काव्यमाला
उत्साहजो भवेद्वीरस्त्रेधा धर्माजिदानतः ।
श्लाध्यैः सर्वगुणैर्युक्तो नायकस्तत्र वर्ण्यते !! ८८ ॥
'कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।' 'वीरः प्रतापविनयाध्यवसायसत्त्वमो.
हाविषादलयविस्मयविक्रमाद्यैः । उत्साहभूः स च दयारणदानयोगात्रेधा किलात्र मतिग-
बंधृतिप्रहर्षाः ॥' प्रतापविनयादिभिर्विभावितः करुणायुद्धदानाद्यैरनुभावितः गर्वधृति-
हर्षामस्मृतिगतिवितर्कप्रभृतिभिर्मावित उत्साहः स्थायी स्वदते भावकमनोविस्तारान-
न्दाय प्रभवत्येष वीरः । दयावीसे यथा नागानन्दे जीमूतवाहनः । युद्धवीरो यथा---
'हतानरीन्वीक्ष्य न संतुतोष यथा स तान्प्रेक्ष्य पुरो नभःस्थान् । अमर्त्यभावेऽपि पुनर्ममै-
षामभूतपूर्वा भविता रणोऽने । दानवीरो यथा---'त्रिलोकीराज्यविभ्रंशचिन्तामाच्छाद्य
दानभूः । उत्सवो ववृधे विष्णोः शरीरेण समं बलेः ॥' प्रस्त्रेदरक्तनयनवदनादिकोधानु.
भावरहितो वीरः । अन्यथा रौदः । विवेकसत्त्वाभ्यां विशेषो वीररौद्रयोः ॥
शोकजः करुणो ज्ञेयस्तत्र भूपातरोदने ।
मोहवैवर्ण्यनिर्वेदप्रलापाश्रूणि वर्णयेत् ॥ ८९ ।।
'इष्टनाशादिभिश्चतोवैलव्यं शोकशब्दभाक । इष्टनाशादनिष्टाप्तौ शोकात्मा करुणो
मतः ॥' निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः । खापापस्मारदैन्याधिभरणालस्यसं-
भ्रमाः ॥ विधादजननोन्मादचिन्ताद्या व्यभिचारिणः ॥ इष्टबन्धुप्रभृतेर्विनाशादनिष्टस्य
बन्धनादेः प्राप्तौ शोकप्रकर्षजः करुणः । इष्टनाशात्करुणो यथा---'अयि जीवितनाथ
जीवसीयभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केव-
लम् ॥' अनिष्टावाते रत्नावल्यां सागरिकाबन्धने ।
हासजन्मा समाख्यातो हास्यनामा रसो बुधैः ।
चेष्टाङ्गवेषवैकृत्याद्वाच्यो हास्यस्य संभवः ॥ ९० ॥
'न्यङ्गवीडादिभिश्चेतीविकासो हास उच्यते ।' न्यहं वैकृतम् । 'विकृताकृतिवाग्वैधै-
रात्मनोऽथ परस्य वा । हासः स्यात्परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥' आत्म-
स्थान्विकृतवेषभाषादीन्परस्थान्वा विभावानवलम्बमानो हासस्तत्परिपोषात्मा हास्यो
यधिष्ठान उत्तममध्यमाधमप्रकृतिभेदात्षड्डिधो भवति । आत्मस्थो यथा-'जातं मे पर-
षेण भस्मरजसा यच्चन्दनोठूलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः ।
रुद्राक्षैः सकलैः सरत्नवलयं चित्रांशुकं वल्कलं सीतालोचनहारि कल्पितमहो रम्यं वपुः
कामिना ॥' परस्थो यथा---'खिज्ञोऽसि मुञ्च शैलं बिमुमो क्यमिति वदत्सु शिथिलभुजः।
भरभुन्नचिततबाहुषु गोपेषु हसन्हरिर्जयति ।' स्मितमिह विकासिनयनं किंचिलक्ष्यद्विज
हसितम् । मधुरस्वरं विहसितं सासशिर:कम्पमुपहसितम् ।। अपहसितं साम्राक्षं विक्षि-
प्ताङ्गं भवत्यतिहसितम् । द्वे दे हसि। चैषां ज्येष्ठ मध्येऽधमे क्रमशः ॥ उत्तमस्य वपर-
पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
