पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
काव्यमाला ।

घनस्तनतटस्फुटस्फुरितकञ्चुली चञ्चली-
 कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे
 परा परमयोगिनां मनसि चित्कला पुष्कला ॥ ८३ ॥
कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी
 निरूदकरुणाझरी निखिललोकरक्षाकरी
मनःपथदवीयसी मदनशासनप्रेयसी
 महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥
धनेन न रमामहे खलजनान्न सेवामहे
 न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहे तरां मनसि किं च काञ्चीरत-
 स्मरान्तककुटुम्बिनीचरणापल्लवोपासनाम् ॥ ८५ ॥
सुराः परिजना वपुन[१]सिजाय वैरावते
 त्रिविष्टपतितम्बिनीकुचतटीं च केलीगिरिः
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
 कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥
पवित्रय जगन्नयीविबुधबोधजीवातुभिः
 पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै-
 नि[२]रक्षरशिरोमणिं करुणयैव कामाक्षि भाम् ॥ ८७ ॥


  1. मदिने इति क-ख-पाठः
  2. निरीक्षणशिरोमणे, इति ध-पाठः