अविश्रान्तं तिष्ठनकृतकवचः कंदरपुटी-
कुटीरान्तः प्रौढां नवरुचिसटाली प्रकटयन् ।
प्रचण्डं खण्डत्वं नयतुः मम कामाक्षि तरसा
[१] तमोवेतण्डेन्द्र तव चरणकण्ठीरवपतिः ॥ ५१ ॥
पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी-
पुरंध्रीणां लास्यं तव सकलमालोक्य शनकैः
नखश्रीभिः [२] स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शङ्के [३]चरणयुगली चाटुरचनाः ॥ ५२ ॥
[४]सरोज निन्दन्ती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखा हिमजलैः ।
स्फुरन्ती कामाक्षि स्कुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुभगा. पादयुगली ॥ ५३ ॥
नतानां संपत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४॥
वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
पदाम्भोजन्यासं पशुपतिदृढप्राणदयिते ।
पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं
दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५॥
प्रणामोद्यद्वृन्दारकमुकुटमन्दारकलिका-
विलोलद्रोलम्जप्रकरमयघूमप्रचुरिमा ।