पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
पञ्चशती।


तुलाकोटिद्वन्द्वं दधदपि व गच्छन्नतुलतां
 गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥ ४५ ॥
प्रवालं सव्री़डं विपिनविवरे वेपयति या
 स्फुरल्लीलं बालातपमधिकवालं द[१]घति या
रूचिं सांध्यां बन्ध्यां विरचयति या वर्धयतु सा
 शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६ ॥
किऱञ्ज्योत्स्नारीतिं नखमणिरुचा हंसमनसां
 वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
 शरत्कालप्रीतिं शशिशकलचूडप्रियतमे ॥ ४७ ॥
नखाङ्कूरस्मेरद्यतिविमलगङ्गाम्भसि सुखं
 कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदञ्चमाञ्जीरस्फुरणमणिदीपे मम मनो
 मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥ ४८ ॥
भवाम्भोधौ नौका जडिमविपिने पावकशिखां
 प्रणम्रेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापज्योत्स्नामकृतकवचःपञ्जरपुटे
 शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ॥
परात्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां
 मनोज्ञस्ते पादो मणिमुकुरमुद्रां कलयते
यदीयां कामाक्षि प्रकृतिमधुरां शोभनादशां
 विधातुं चेष्टन्ते ब[२]लरिपुवधूटीकुचभराः ॥ ५० ॥


  1. विचतिः इति क ख-पाठ,
  2. शची