शनैरतीर्त्वा मोहाम्बुधिमथ स[१]मारोढुमनसः
श्रमात्कैवल्याख्यां सु[२]कृतिसुलभां सौधवलभीम्
लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४० ॥
[३]प्रचण्डार्तिक्षोभाप्रमथनकृते प्रातिभसरि-
त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढ़े भवतमसि कामाक्षि चरणं-
प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते॥४१॥
मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता.
सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्मञ्जीरजकलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति सा पादयुगली ॥ ४२ ॥
जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा
सुरार्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ ४३ ॥
गिरां दूरौ चौरौ जडिमतिमिराणां कृतजग-
त्परित्राणौ शोणौ मुनिहृदयनीडैकनिपुणौ
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥ ४४ ॥
अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रग्यमनजुषां पङ्कमखिलम् ।