जगन्नेदं, नेदं परमिति परित्यज्य यतिमिः
कुशाग्रीवस्वान्तैः कुशलधिषणैः शास्त्रसरणौ
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदंपर्यं तव चरणमाहात्म्यगरिमा ॥ २४ ॥
कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वेशद्यं कलितरसमानन्दमुधया
अलंकार भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरन्तःस्थं तव चरणरत्नं विजयते ॥२५॥
मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु-
र्दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणः
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
क्षणार्धं सांनिध्यं चरणमणिदीपो जननि ते॥२६॥
कवीनां चेतोदन[१] स्वररुचिसंपर्कि विबुध-
स्रवन्तीस्रोतोवत्पटुमुखरितं हंस[२]करवैः
दिनारम्मश्रीवन्नियतमरुपच्छायसुभगं
मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरूहयुगम् ॥ २७ ॥
सदा किं सं[३]पर्क प्रकृतिकठिनैर्नाकिमुकुटै-
स्तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
[४] विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा-
मदृश्यं कामाक्षि प्रकटयति ते [५]पादयुगलम् ॥ २८ ॥