पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥
मरालीनां पादाहतिमदनिशं हंसनिवहै-
र्नमस्यं निर्जाड्यं नियतजलमध्यैकशरणम्
अदोषच्यासङ्गं सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगलम् ॥ ३०॥
सुराणामानन्दप्रवलनतया म[१] ण्डनतया
नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया
पयोजश्रीद्वेषव्रतस्ततया त्वच्चरणयो-
र्विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥
सितिम्ना कान्तीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने
लभन्ते मन्दारग्रथितनवबन्धूककुसुम-
स्रजां सामीचीन्यं सुरपुरपुरंध्रीकचभराः ॥ ३२॥
नखश्रीसंनद्धस्तबकनिचितः स्वैश्च किरणैः
पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शङ्के सकलफलदाता सुरतरु-
स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३३ ॥
स्फुरन्मध्ये शुद्ध नखकिरणदुग्धाब्धिपयसां
बहन्नब्जं चक्रं दरमपि व ले[२]खात्मकतया ।