पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
काव्यमाला ।

लावण्याम्बुजिनीमृणालवलवैः श्रृगारगर्जद्विप-
 भाभण्यः श्रुतिचामरैस्तरूणिमस्वाराज्यबीजाङ्कुरैः ।
आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
 श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥ ५४ ॥
उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
 चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती ।
या वैदुग्ध्यमुपैति शंकरजटाकान्तारवाटीपत-
 त्खर्वापी[१]पयसः स्मितद्युतिरसौ कामानि ते मञ्जुला ॥ ५५ ॥
सन्नामैकजुषा जनेन सुलभं संसूचबन्ती शन्नै
 रुतुङ्गस्य चिरादनुमहतरोरुत्पत्स्यमानं फलम्
प्राथम्येन विकस्वरा कुसुमबत्प्रागल्भ्यमभ्येयुषी
 कामाक्षि स्मितचातुरी तब मम क्षेमंकरी कल्पताम् ॥ ५६ ॥
धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया निभलो
 लीलालोकशिलीमुरवं नववयःसाम्राज्यलक्ष्मीषः-
जेतुं मन्मथमर्दिनं जननि ते मन्दस्मिप्रक्रमो
 वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥
यन्नाकम्पत कालकूटकवलीकारे चुचुम्बे न यद्
 म्लान्या वषि रूषितानलशिखे रूद्रस्य तत्तादृशम् ।
चेतो यत्प्र[२]सभं स्मरज्वरशिखिज्वालेन लेलिखने
 तत्कामाक्षि न च स्मितांशुकणिकाहेलाभवं प्राभवम् ॥ ५८ ॥
संभिन्नेव सुपर्वसोकतटिनी वीचीचयैर्यासुनैः
 संमिश्रेव मशशाङ्कदीप्तिलहरी नीलैर्हानीरदैः ।


  1. पयसा इति स-पाठ,
  2. प्रभवस्थिरज्वरविधिज्जालेत अति का पाठ