या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा में खेलतुः कामकोटि हृदथे [१]स्वच्छा स्मितांशुच्छटा ॥ ४३ ॥
मन्दारे तव मन्थरस्मितरूचो मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते ।
चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वे[२]षाङ्कुरो दृश्यते
शुद्धानो कथमीदशी गिरिसुतेऽशुद्धा दशा कथ्यताम् ॥ ४४ ॥
पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा [३]तस्मादियं तादृशी
कामाक्षि सितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ ४५ ॥
आशङ्के तव मन्दहासलहरीमन्यादृशी चन्द्रिका-
मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे ।
व[४]क्षोजाम्बुरुहे न तें रहयतः कांचिद्दशां कौड्मली-
मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम् ॥ ४६॥
आस्तीणाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी
कामद्रोहिणि मांसलस्मरसशरज्वालावलिं व्यञ्जती
निन्दन्ती धनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७ ॥
सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम:-
संदोहं नमतां निजस्मरणतो दोषा[५]करद्वेषिणी ।