एतावदद्य कथयामि शपे कुचाभ्या-
माभ्याममुं जनमवैहि तवैव दासम् ॥ ५७ ॥
इति कृतसमयोऽसौ कल्यमुत्थाय गत्वा
द्विजवरगृहमारादात्मगेहोपमानम् ।
विहितसकलकृत्यो मृष्टमास्वाद्य चान्नं
सपदि मुदितचेताः प्राप कान्तानिकेतम् ॥ ५८ ॥
सा च स्वानाद्यखिलमविलम्बेन निर्वर्त्य कृत्यं
पत्युः प्रत्यागमनपदवीदत्तनेत्रारविन्दा ।
भूयोभूयः किमपि रजनीवृत्तमेव सरन्ती
पुष्पामोदात्पुलकिततनुः स्वैरमस्थादलिन्दे ॥ ५९ ॥
आयातेन समे प्रियेण सुमुखी सा प्राप्य वासालयं
स्वच्छप्रच्छदभाजि केलितलिमे तन्वी शयाना सुखम् ।
न्यूनप्रणयप्रवाहसुभगैराकातिश्चेतसा
तैम्तैनर्मभिरुन्मिषत्परिमलैरहाय निन्ये दिनम् ॥ ६० ॥
क्षणादस्तं याते दिनकृति शनैर्वाति पवने
समादायामोदं दरदलितजातीसुमनसाम् ।
समारूढे चेन्दौ गगनममृतस्यन्दिकिरणे
स्मरोन्मादावेगादधिकविवशौ तावभवताम् ॥ ६१ ॥
गतनिजपरभावं गाढगाढप्रहारं
माणितभरितगेहं मञ्जभूषाविरावम् ।
सुरतमधिकमासीदुद्धतं चित्तरङ्गे
सति मदनविलासे कामिनां का व्यवस्था ॥ ६२ ॥
समदिवसनिशीथं क्रीडतोरेवमेव
क्षणवदविदितांशा वत्सराः केऽपि याताः ।