न च सुरतसुखे तौ वीततृष्णावभूतां
न खलु विषयसङ्गः शीलनेनैति शान्तिम् ॥ ६३॥
इत्थं निवसतोः स्वैरं नित्यं प्र[१]त्यायोस्तयोः ।
कदाचिस्वगृहं याता वयस्या कार्यगौरवात् ॥ ६४ ॥
शय्योत्थायमर्थकदा प्रियतम याते प्रभातागमें
निद्राशेषनिमीलिताक्षिकमला तन्वी शयाना क्षणम् ।
दुर्वारं खलु दैवदुर्विलसित स्वमं स्वयं सा विलो-
क्यान्यासङ्गिनमात्मवल्लभमतिक्रुद्धा विवुद्धाभवत् ॥ ६५ ॥
निद्राविरामसमयेऽपि रुषा स्फुरन्त्या
मुद्रादरिद्रतरया परिवृत्तचेताः ।
स्वप्नानुभूतमपि वस्तु तदस्तधैर्या
तन्वी चिराय परमार्थतयैव मेने ॥ ६६ ॥
सा भामिनी परुषरोपनिनीतचित्ता
नैवोच्चचाल शयनादतिदूयमाना ।
क्षौमोपधानममलं नयनान्तवान्तै-
रातन्वती मलिनमश्चभिरझनाक्तैः ॥ ६७ ॥
यथापुरमुपस्थितः स तु विलोकयन्प्रेयसीं
विकारमयथापुरं विधृतमानमासेदुषीम् ।
विषादभरविह्वलः किमिति चिन्तयन्नन्धधी-
रुवाच कलितादरं सुरसया गिरा सान्त्वयन् ॥ ६८ ॥
किमेतदयि बल्लभे कथय किं न जानासि मा-
ममुं तत्र पदाश्रयं किमिति मानमालम्बसे ।