पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
कोटिबिरहम् ।

 हृदा तु प्रत्वयं प्र[१]सवशरकेलीगृहगतं
  तदीयनत्यन्तं परिहसितपर्वेन्दुलुपमम् ॥ ४५॥
 तदनु शशिमुखी सा प्राप्य शय्यानिकेत
  निजमभजत तल्प निर्मरानपीडा।
 किमपि जनितकम्पैरङ्गकै ङ्गमाला-
  बचन(चरण)चलितमल्लीवल्लरीतुल्यकुल्यः ॥ ४६॥
मनसा सदृशानुरागभाजी मुहुन्धुक्तपरस्पराभिसारौं ।
अवमानभयेन जातचिन्ताबवलन्तौ वधुपा च तावभूताम् ॥ ४७ ॥
 तल्पादनत्परसमुच्चलितोऽथ तत्वा-
  त्पुष्पायुधेन बलिना परिणुद्यमानः
 सोऽयं निवेश शनकैः श[२] फरेक्षणायाः
  शम्यागृहं शमितकल्पमणिप्रदीपम् ॥ ४८ ॥
 बद्धोधमा तदभिसारविधौ बिसोढुं.
  तत्तादृशं मदनतापमपारयन्ती ।
 मुग्धा विहाय शयनं खयमुत्थिता च
  न्यस्तं च तेन विवरे कुचयोः करानम् ॥ ४९ ॥
 पुलकिततनुवल्ली सा ततः प्रीतिवेगा-
  स्मृदुलभुजलताभ्यां गाढमालिङ्गय कान्तम् ।
 अधिककुतुकमारादानमय्या[३]दसीयः
  वदनमघरबिम्ब चुम्बति स्म प्रकामम् ॥ ५०॥
 अनुदिवसमयोगे चेतसा कातितं य-
  द्यदपि मदननाम्ना [४]देशिकेनोपदिष्टम्


  1. कामः
  2. मीनलोचनायाः
  3. एतदीयम्
  4. गुरुणा