व्याजेन केनचिदनन्यगतिः स्वगेहा-
देकः प्रियामबलुलोकयिधुः प्रतस्थे ॥ २७ ॥
असे वहन्नधिककोमलमजनानां
चि[१] ल्लीविलासचतुरं मधुरं श[२]रासम् ।
अध्यानमन्तिकचरं कथयन्नवक्रं
साहायमस्व विदधे स[३]हकारबाणः ॥ २८ ॥
स्फुरद्रागोन्मेने चरमगिरिसौधावलभी
नभोमध्यादद्धा विशति नलिनीजीवितसमे
असावक्षीणश्रीरधिकलुलिताङ्गोऽपि शनकैः
प्रपेदे प्रेयस्याः प्रकृतिरमणीयं निलयनम् ॥ २९ ॥
तदनु मुदितचेताः साध्य वापीमदूरे
विमलसलिलपूरस्पर्शवीताध्वखेदः ।
अधिकसुभगपातैः सेवितो बा[४]नपोतैः
संकुतुकमभिषेदे मन्दिर सुन्दरामयाः ॥ ३०॥
आवृण्वानामुरसिज़मरोत्सेधमेकेन दोष्णा
विन्यस्यन्ती तदितरकरे वक्षमापाण्डुगण्डम्
अङ्के सख्या निहितचरणामध्वनि न्यस्तनेत्रा-
मद्राक्षीत्त मुंदुनि त[५]लिमें मुग्धगात्रीं शयानाम् ॥ ३१ ॥
तदनु मदनपीडां मानसे देहकान्त्या
स्फुटमिक कलयन्ती प्रेक्ष्य कान्तामदूरे
कुतुकभरमनोजातकमिश्रीकृतात्मा
द्रुतमभजत कामी वामनेत्रासकाशम् ॥ ३२ ॥