अभ्यर्थमानमनिशं मनसा पुरस्ता-
दभ्यागतं समवलोक्य युवानमेनम्
सा स्वगतोक्तिमकरोदमृतद्रवार्द्र-
मन्दारकान्तिलहरीसुहृदा स्मितेन ॥ ३३ ॥
ततः श्रान्ते कान्ते संविधभुवि सख्या चतुरया
समानीत नव्यं तृणकटमलकुर्वति शनैः ।
न्यषीदत्सा [१] चारान्मितमधुरवाणीविलसितै-
र्हरन्ती तच्चेतो हरिणतरुणीमुग्धनयना ॥ ३४ ॥
लपन्ताबन्योन्यं किमपि समुदाचारसरसं
दिशन्तौ ताम्बूलं परिमिलितकर्पूरसकलम् ।
वदन्तावाकाङ्क्षामधिकचतुरैरक्षिवलनै-
र्युवानौ तावास्तामुदयदधिकामोदसरसौ ॥ ३५ ॥
बाध्यात्रेण प्रतिष्ठासुमप्रतिष्ठालुमात्मना ।
कामिनी कामुकं प्राह [२]यामिनीकामुकामना ॥ ३६॥
यातप्रायमिदं दिवं कमलिनी दीनेयमालोक्यता
नीरन्ध्रश्च पयोधरः स च शशी दूरेगुना वर्तते
विप्रागारमिदं तदाकसविधे स्वायत्तमेतच ते
गेहं तत्क्षपय क्षपामिह महान्कार्यातिपातो न चेत् ॥३७॥
अध्वा निर्मल एव नापि सहसा संवर्धते वा तमो
विद्यन्ते च निकेतनानि सुहृदामृद्धानि मध्येपथम् ।
मुग्धापाङ्गि प[३]योधरः परमसौ संध्यागमे सांप्रतं
प्रस्थानोद्यममुन्नमत्प[४]रिगलद्धारो रुणद्ध्येव मे॥ ३८ ॥