पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
काव्यमाला ।

 उद्भिधमानपुलको निटिलपरोह-
  दानधर्मकणसुन्दरबक्रविम्बौ ।
 धन्याविमौ विगलितान्यसखौ युवाना-
  वन्योन्यदर्शनमहोत्सवमन्वभूताम् ॥ १५ ॥
 अत्यायतैर्गुणगणैर्निबिडं निबद्धा-
  वाकृष्यतामभिमुखौ तरसा विधाय ।
 अव्याजविक्रमघनो विललास संध्ये(?)
  सव्यापसव्यमिषुभिर्विकिरन्मनोभूः ॥ १६ ॥
 सदनु कतिपयानां नाडिकानां विरामे
  विरतिमुपगतोऽभूदुत्सवश्चण्डिकायाः ।
 विततकुतुकमाजोरेतयोर्नेत्रकोण-
  व्यतिकररसजन्मा तूत्सवो न व्यरंसीत् ॥ १७ ॥
अपयत्सु जनेषु लावतृप्ताववरूढौं गमनाय वेदिकायाः ।
मृदुहासमुधानुलिप्तवत्रौ मितमापृच्छय यथागतं प्रयातौं ॥ १८ ॥
 किमपि किमपि सख्याः श्रोत्रमूले वदन्ती
  बलितवदनमेनं वीक्षमाणा युवानम् ।
 कपटकृतविलम्बा कामिनी सा कथंचि-
  निजनिलयमयासीनिहतानङ्गपीडा ॥ १९ ॥
सेयं सायं प्राप्य गेहं नताशी भेजे तल्प कल्पितं तत्सखीमिः ।
अत्यारूढा चित्तजन्मव्यथा तामध्वश्रान्तिव्याजतो गृहमाना ॥ २० ॥
 पश्यन्ती तं हृदि सुकृतिनं निःश्वसन्ती सुदीर्घ
  नश्यद्धैया नयनकमलादश्रुधारां किरन्ती
 बिसस्ताझी विदलितमनाः सायकर्मीनकेतो-
  रखस्था सा समाजनि मनोमोहना मुग्धगात्री ॥ २१ ॥