हृदयगूढनिरूढमनोजयोरिति तयोर्वसतोः कुतुकार्द्रयोः ।
अभवदभ्युदयाय महो महाननतिदूरगते गिरिजालये ॥ ७ ॥
आकल्पजालसविशेषमनोहरश्रीः
साकं व्यस्यनिवहैश्च समानवेषैः
सोऽयं विवेश गिरिजाभवनं विलासी
तामुत्सवश्रियमुदीक्षितुमुत्सुकात्मा ॥ ८ ॥
आकाङ्क्षितार्थजननीमभिवन्द्य गौरी-
मालोकयन्नभिनवानयमत्सुनौ(मुत्सवौ)धान् ।
अन्यूनकौतुकभरैः सहितो वयस्यै--
रध्यारुरोह ललितामथ रत्नवेदीम् ॥ ९ ॥
आलीवृन्दैरविकनिपुणैरात्मना निर्विशेषैः
केलीशील सततवशगैरावृता च लकान्तैः ।
नानाभूषामणिगणरुचा भासयन्ती दिगन्तं
सा च प्रागादुदितकुतुका द्रष्टुमेबोत्सवं तम् ॥ १० ॥
नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी
मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् ।
प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो-
रत्रानन्दप्रसरमपरा(!) वेदिकामारोह ॥ ११ ॥
विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् ।
सा कोऽयमित्यन्तस्दीतचिन्ता माला क्षणं व्याकुलतामवाय ॥ १२ ॥
स च तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे ।
हृदि केयमिति प्ररूढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥
स इति सेति च तौ परिबोधितौ सवयसा शनकैः श्रवणान्तिके ।
अतनुतां परिरम्भणमञ्चलैर्नयन्योनवविनम्रचंचलैः ॥ १४ ॥