पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
काव्यमाला।


मातः क्षणं स्नपय मां तव वीक्षितेन
 [१]मन्दाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करमास्करेण
 श्रेयस्करण मधुपद्युतितस्करेण ॥ ४५ ॥
प्रेमापगापयसि मजनमारचय्य
 युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
 श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६ ॥
कैवल्यदाय करुणारसकिंकरायः
 कामाक्षि कन्दलितविम्रमशंकराय ।
आलोकनाय तव भक्तशिवशंकराय
 मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७ ॥
साम्राज्यमङ्गलविधौ मकरध्वजस्य
 लोलालकालिकृततोरणमाल्यशोभे
कामेश्वरि प्र[२]चलदुत्पलवैजयन्ती-
 चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥
मार्गेण मञ्जुकचकान्ति[३]तमोवृतेन
 मन्दायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
 संकेतभूमिमचिरादभिसारिकेव ॥ ४९ ॥
व्रीडानुवृत्तिरमणीकृतिसाहचर्या
 शैवालिलां गलरुचा शशिशेखरस्य ।


  1. 'मन्दक्षिन इति ग-पाठः,
  2. 'प्रचुरमुत्पल' इति ग-पाठः
  3. ’तमद्यतेन इति पुस्तकेषु पाठ