पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
पञ्चशती ।


कामाक्षि कान्तिसरसौं त्वदपाङ्गलक्ष्मी-
 र्मन्दं समाश्रयति मजनखेलनायः ॥ ५० ॥
काषायमंशुकमिव प्रकटं दधानो
 माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
 कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१ ॥
पाषाण एव हरिनीलमणिर्दिनेषु
 प्रम्लानतां कुवलयं प्रकटीकरोति ।
नैमित्तिको जलदमेचकिमा ततस्ते
 कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्या: ॥ ५२ ॥
शृङ्गारविभ्रमवती सुतरां सलज्जा
 नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेत-
 त्कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३ ॥
नीलोत्पलेन मधुपेन च दृष्टिपातः
 कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दति यदन्वहमिन्दुपादा-
 न्पाथोरुहेण यदसौ कलहायते च ॥ ५४ ॥
ओष्ठप्रभापटलविद्रुममुद्रिते ते
 भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
 कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥