सेयं संप्रति चण्डभानुविलसचण्डातपप्रोच्छल-
ज्ज्वालाजालविलुप्तजीवनभरा हा हन्त-संताम्यति ॥ ३८ ॥
नोचैर्जल्प मनान्यतस्व सहसा कुञ्जे निलीय क्षणं
गन्तुं कीर वदामि सास्तु मधुरव्याहारतारध्वनिः ।
काकोलादपि दारुगैरनुचितारम्भाग्रणीभिः पर
रुद्धा संप्रति किं किरातनिकरैर्नालोक्यते मेदिनी ॥ ३९॥
प्रोद्यत्प्रौढमहीमहेन्द्रमवने प्रोतुङ्गसौधाङ्गणे
गत्वा काक बराक किं कल्यसे साम्यं मरालैः समम् ।
छिद्रान्वेषणभूरिकर्मकुशलाः किंचिल्लभन्ते खलाः
सम्यक् पण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४०॥
लोके दृष्टमिदं मया बहुतरं हंहो न सन्त्येव ते
ये विन्दन्ति सखायमुत्तमगुणं मित्रैकचिते रतम् ।
शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा
नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥४१॥
क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्थलस्थायिनी
शीतांशोर्भगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः ।
एकैकं वचनातिगं जलधिजे सर्व विजानीमहे
चाञ्चल्यं यदि नाम चेन्नहि भवेदेकं कलङ्कास्पदम् ॥४२॥
दर्प मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा-
पातैरेव महोक्ष गर्जसि मुधा कि गर्जितेनामुना.
तावत्संचर यावदाशु न मनागादाय सीरं हठा
त्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥
त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो
हित्वा कत्वपि कानुनानि दिवसप्रान्ते द्विरेको युवा ।