पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
अन्योक्तिशतकम्


त्वं त्वेनं समुदीक्ष्य पत्रनिकरानाकुच्य यद्गोपनं.
 वक्रत्याशुः करोषि पद्मिनि न तद्युक्तं प्रतीमो वयम् ॥४४॥
दूरे तिष्ठति काननं नहि मनाङ्ग्तीर समालोक्यते
 ऋरः संप्रति वालुकापरिकरश्चण्डांशुस्त्युन्नतः ।
भूरेषा मरूरेव संप्रति कथं गन्तव्यमेकाकिना
 मन्दं यूथपतिर्मुहुर्मुहुरिति ध्यायन्धुनीते शिरः ॥ ४५ ॥
दिक्चक्रं करिशाव दावदहनैर्दग्ध पुरो दृश्यते
 छाया क्षीणतरा क्षमापि समभूद्दूरे न नीर कंचित् ।
चित्रं चण्डचलत्प्रचण्डकिरणज्वालाकुलाङ्गो मुधा
 मध्याह्ने कथमेकदैव सहसा गन्तुं समुत्कण्ठसे ॥ ४६ ॥
शार्दूलाः प्रतिपेदिरे प्रथमतो गर्भान्तर भूरुहां
 कुञ्जं किं च समाश्रयन्ति हरिणा लीना वराहाः क्वचित् ।
उद्दण्डप्रकटप्रचण्डकिरणज्वालाकुले दिक्कुले
 हा हा हन्त करी करोति कतमां जीवातवे जीविकाम् ॥४७ ॥
उच्चैश्चण्डमरीचिमण्डलकरज्वालाकुला दिक्तटी
 पश्चाद्धोरदवाग्निगर्वगरिमोद्रिता धरित्री पुरः
कर्तव्यं कथमत्र हन्त करुणारङ्गी कुरङ्गीपति-
 र्मत्वैवं हरिणीविलोकनघनीभूतोऽभवत्कुण्ठितः ॥ ४८ ॥
कृत्वा पर्वतकंदरापरिसरे केलीभरं लीलया
 मुक्त्वा पङ्कज़कोरकांश्च परितो भृङ्गैः समावेष्टितः
यावद्याति करेणुकाकटतटीकण्डूयने केवलं
 तावत्तीव्रहरीन्द्रदर्वहकरैः क्षुण्णोऽभवत्कुञ्जरः ॥ ४९ ॥
यः पूर्वं नवदानदर्पिततनुर्दन्तेन दन्तावलां-
 श्चूर्णीकृत्य महाभिमानभरितो नो मन्यते कानपि ।