पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१० पद्धतिः]
८३
भिक्षाटनकाव्यम् ।

स्वादिष्ठता वचसि वक्र(क्तृ)गुणैर्न जाता
श्रोतुर्जनस्य गुणवत्त्वनिबन्धनैव ॥ १४ ॥
क्रीडापरः कथमसि त्वमनादिवृद्धो
मुग्धासु भैक्षचरणच्छलतो वधूषु ।
यः संगमो युवतिभिर्जरयातुराणां
तं सूरयो ज्वरणभैक्षजमामनन्ति ॥ १५ ॥
धिक्त्वां भुजङ्गममयस्तव यस्य हारो
मुक्तामयस्तव न किं मम पश्य नाथ ।
मुक्तामयत्वमुचितं ननु तस्य बाले
पीनस्तनेन कृतसंगमनिर्वृतस्य ॥ १६ ॥
अन्यत्र यातमपि मानसमीश किं ते
नैवाददासि बलिमद्य नच प्रयासि ।
धत्ते गुरुस्तनभरः कलकण्ठितस्य
तद्दक्षिणीकृतमिदं हृदयं मया ते ॥ १७ ॥
धिक्कार्ष्ण्यमीश भवतो मुखपूर्णचन्द्रे
भ्रष्टं तदेव गणयामि गलस्थमेतत् ।
रागोऽधरे सुदति यः स तवाननेन्दो-
राभासि(ति) संचित इवोदयशोणभावः ॥ १८ ॥
मध्यस्थमीश कथयन्त्यखिला भवन्तं
कस्मादकारि भवता स्मरदेहदाहः ।
पुंसां करोति मदिराक्षि नितान्तपीडां
मध्यस्थमेव कथमद्य वलित्रयं ते ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्य उत्तरप्रत्युत्तरपद्धतिर्नवमी ।

दशमी पद्धतिः।

प्रत्यालयं कृपणवजगतामधीश
देहीति दीनपदवादिनि भिक्षमाणे ।