पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
काव्यमाला ।

पूर्णं विहाय कथमेनमनङ्गशत्रो
मूर्ध्ना भवान्वहसि(ति) नित्यकृशं शशाङ्कम् ।
त्वद्वक्रकान्तिपरिभूतिमनाकलय्य
पूर्णाद्वराङ्गि वर एव कृशोऽयमिन्दुः ॥ ८ ॥
ये गर्हिता गिरिश तेऽपि भवन्तमेत्य
श्लाध्या भवन्ति सहसेति सतां प्रवादः ।
रागोऽधरे कुटिलताप्यलके, कृशत्वं
मध्ये, कुचे कठिनता च तथा न किं ते ॥ ९॥
वैवस्वतेन दमितः सकलोऽपि लोकः
सोऽपि त्वदीयचरणेन पिनाकपाणे ।
पद्मं शशी जयति भीरु मुखं तवैन-
मेकान्ततो न विजयो न पराजयो वा ॥ १० ॥
देहीति वाचि पदमद्य तवेन्दुमौले
चक्षुः पुनर्मुगदृशां मणिमेखलासु ।
पुंसो रसार्द्रहृदयस्य पुरो वधूनां
वाक्ये च चेतसि च कर्मणि चान्यदन्यत् ॥ ११ ॥
एतेन भैक्षचरणेन जगत्कुटुम्ब-
त्राणक्षमा पशुपते किमलाभि पूर्तिः ।
पूर्णो न किं प्रतिदिनं त्वयि भिक्षमाणो
लावण्यमाननगतं प्रतिपच्छशाङ्कः ।। १२ ॥
अग्रेसरस्त्वमसि नाथ विलासभाजां
भिक्षामटस्यपि कथं त्वमपास्तलज्जः ।
स्वच्छन्दवीक्षणवचांसि पृथग्वधूपु
कर्तुं न भैक्षचरणादपरोऽप्यु(स्त्यु)पायः ॥ १३ ॥
एतानि नाथ वचनान्यमृतोपमानि
कण्ठादुपात्तगरलादपि निर्गतानि ।