पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
काव्यमाला ।

इत्थं बभूव किल भर्तरि शैलजाया
दाक्षिण्यपाक इव कापि मुहुः शुशोच ॥ १८ ।।
व्यालोलकेशकलितैककरैव काचि-
काञ्चीगुणश्लथनदर्शितनाभिमूला ।
वक्षस्यभीष्टदयिताकुचमुद्रितोऽयं
योगी किलेति गिरिशं कुटिलं ददर्श ॥ १९ ॥
शर्माद्भविष्यति ममेति तदीयकम्पै-
र्बुद्धाननन्द यदतीव पुरा वराङ्गी ।
तद्वाममेव नयनं शिवमीक्षमाणा
शर्वाण्यसर्वसमचित्ततया निनिन्द ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दर्शनपद्धतिः षष्टी ।

सप्तमी पद्धतिः ।

आपादपद्मयुगमा च कपर्दभारा-
दङ्गान्यनङ्गदमनस्य पुरन्ध्रिवर्गः ।
नेत्रैरपाकृतनिमेषकथैर्विलोक्य
कर्णामृतानि वचनानि मिथो बभाषे ॥ १ ॥
नैवान्यदस्ति शरणं चरणारविन्दा-
द्गौरीसखस्य सखि दुःखजुषां जनानाम् ।
यत्पद्मा(?)दुर्बलमपि स्वयमन्तकस्य
वक्षो विभेद दृढमाश्रितरक्षणाय ॥ २ ॥
तारापतीन्सुदति पश्य पिनाकपाणेः
पूर्णानिमान्पदमुपेत्य नखच्छलेन ।
अस्यायमङ्घ्रिकमलाश्रयहानिदोषा-
दद्यापि हन्त कृश एव कपर्दचन्द्रः ॥ ३ ॥