पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ पद्धतिः]
७३
भिक्षाटनकाव्यम् ।

कस्याश्चिदायतदृशो हरकण्ठमूलं
कण्ठग्रहोत्सुकतयैव विलोकयन्त्याः ।
त्रासावहस्तु न गरो न च हारसर्पो
यत्पार्वतीवलयपतिपदं तदेव ।। १२ ।।
नेत्रद्वयेन हृतधीः करुणामयेन
काचितृतीयमपि लोचनमीश्वरस्य ।
उन्मीलितं चिरनिमीलितमाचकाङ्क्षे
सा तं न(तन्न) देवभुवनेन्धनवह्निगर्भम् ॥ १३ ॥
कान्त्या रतिर्भुजगहारतयैव भासा
शोकश्च दुर्लभतया गरलेन भीतिः ।
केश्च(?) निर्दयतया च यदा कुलाक्ष्या
नानारसास्पदमजायत शंभुकण्ठः ॥ १४ ॥
अङ्गानि भीषणभुजंगविभूषणानि
मत्वेतराणि नयनं विनिवर्ति(३) तेभ्यः ।
वक्रं स्मिताभरणमीशितुरीक्षमाणां
बालां रुरोध सहसा प्रति नेत्रपात्रः ॥ १५ ॥
संध्यानभःकपिशभासि विभोः कपर्दे
काचिद्विलोक्य बुभुदे (बुधे) तुहिनस्य रेखाम् ।
स्रष्टुः कपालशकलावलिसाहचर्या-
द्दंष्ट्रेव पोत्रिवपुषः पुरुषोत्तमस्य ॥ १६ ॥
शंभोश्चिरं पदयुगे चिरमूरुकाण्डे
मध्येचिरं चिरमुरस्यधरे तथैव ।
एवं मुहुः कृतपरिभ्रमणान्मृगाक्ष्या
दृष्टिर्जगाम तृषितेव शिरःस्रवन्तीम् ॥ १७ ॥
गङ्गामवेक्ष्य गिरिशस्य जटाकलापे
दीर्घोर्मिहस्तकलितेन्दुकलां चिराय ।