पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
रामचापस्तवः ।

मारीचान्त्रैकहाराभरणकृतरुचिर्वालिहृत्पद्महारी
पौलस्त्यप्राणकुक्षिंभरिरवतु जगद्रक्षको रामबाणः ॥ ३ ॥
भक्तानामिष्टदाने सुरतरुरुदधेः शोषणे वाडवाग्निः
क्रव्यादव्याजखेलत्प्रबलतमतमःखण्डने चण्डभानुः ।
पुष्णातु क्षेममेकाधिकदलितमहासालपषट्कः पृषत्कः
श्रीरामस्कन्धपीठग्रथितशरधिवल्मीकशायी फणीन्द्रः ॥ ४ ॥
प्राप्यानुज्ञामभिज्ञात्कुशिककुलभुवस्तापसात्कोपसान्द्रे
स्वामिन्युन्मोक्तुकामेऽप्यनुचितमिदमित्यन्तरुद्भिन्नचिन्तः ।
कंचित्कालं विलम्ब्य स्मृतनिखिलजगद्रक्षणस्तत्क्षणं यः
संतापं ताटकाया व्यधित युधि तमेवाश्रये रामबाणम् ॥ ५ ॥
मौर्वीटंकारघोरश्रवणकटुरटत्ताटकोद्घाटितास्य-
भ्रश्यज्ज्वालाविनश्यद्धनतमतिमिरारण्यलीलाधरण्याम् ।
भिन्दन्यो वृक्षवृन्दं विगलितगरुतं विक्षिपन्पक्षिपङ्क्तिः
कर्षन्मेघान्व्यहार्षीद्रघुपतिविशिखं तं भजे रोगहत्यै ॥ ६ ॥
संभ्राम्यत्ताटकाम्भोवहनिवहरजोवृष्टिनष्टावकाशे
दिक्चके येन चक्रे स्फुटतरुपटलोत्पाटनापाटवेन ।
रंहःसंमुग्धसिंहच्युतमदकरिणा चण्डवातस्य लीला
स स्ताद्राजेन्द्रहस्ताम्बुजवसतिरिषुः श्रीनिदानं सदा नः ।। ७ ।।
संक्रुद्ध्यत्ताटकाभ्युत्पतनजवसमुद्भूतपीत्कारघोर-
व्यात्तास्योद्वान्तवक्षःस्रवदसृगभितस्वप्रवेशप्रदेशः ।
लीलाविध्वस्तमूलावनिरुहनिवहानुद्रुतो रौद्रवेगो
हर्षाद्द्यामावृणोद्यो हरतु स दुरितं रामभद्रस्य बाणः ॥ ८ ॥
नीलाम्भोवाहलीलां विदधति दलिते ताटकाबाहुमध्ये
विद्युल्लेखामिवैकामुदसृजदसृजा वाहिनीं लोहिनीः यः ।
दीप्तानां प्राप्तिमावेदयितुमिव भुवि स्वप्रतापातपानां
बाणो राजेन्द्रतूणोदरकृतभरणो वैरिणोऽसौ कृणोतु ॥ ९ ॥