पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
काव्यमाला ।

येन प्रौढेन मध्ये महितरसभरालंक्रियाकल्पकेन
श्लोकानुत्पादयित्रा रजनिचरकुलोत्पाटनानाटकस्य ।
न्यस्तं प्रस्तावनायाः सपदि किल पदे ताडनं ताटकायाः
सोऽस्माकं रामबाणः सुललितरचनां सूक्तिमाविष्करोतु ॥ १०॥
हस्तोदस्तत्रिशूलक्षपितमुनिपृथुस्कन्धनिष्यन्दमान-
स्फारासृक्पूरधाराभजनजठरभृत्ताटकापाटनेन ।
नन्दद्योगीन्द्रवृन्दस्तुतिमुखरितदिक्चक्रवालान्तरालो
रक्षेदिक्ष्वाकुचूडामणिकरकमलोत्सङ्गशायी शरो नः ॥ ११ ॥
होतर्युन्मुक्तशस्त्रे विरमति सहसोद्गातरि स्तोत्रगाना-
दध्वर्यावस्तपात्रे द्रवति किमिदमित्युन्मिषत्यन्यलोके ।
यो वेगादुज्जिजृम्भे कुशिकसुतमखे वर्षतो विस्त्रमास्त्रं
रक्षोमेघाञ्जिघांसुर्घटयतु स घनां संपदं रामबाणः ॥ १२ ॥
दुर्दान्तो रक्तबिन्दून्विकिरति परितो वेदिकां कौशिकस्ये-
त्यर्धोक्ते सिद्धसङ्घैर्झटिति पटुतरो यः शठं ताटकेयम् ।
धृत्वा धूत्वार्दयित्वा जलनिधिकुहरे मज्जयामास वेगा-
द्रोगानस्माकमुच्चाटयतु स जवनः सायकस्ताटकारेः ॥ १३ ॥
विश्वामित्रीयसत्रप्रतिहतिकलनोड्डामरव्योमरङ्ग-
त्वङ्गन्मारीचदूरीकरणरयसमुद्भूतजीमूतचक्रः ।
तत्कालोद्भूतहर्षाद्भुतभयशबलस्वान्तयोगीन्द्रदत्त-
द्राघीयःश्लाघनोक्तिर्दलयतु दुरितं सायको राघवीयः ॥ १४ ॥
मौलिभ्रश्यत्किरीटं गलपरिविगलच्चारुमुक्ताकलापं
त्रासोद्यन्मुष्टिबन्धश्लथकरयुगलस्रंसमानासिखेटम् ।
दूरक्षिप्तान्तरीयप्रकटकटितटीबद्धकौशेयकक्ष्यं
धून्वन्मारीचमुञ्चै रघुपतिविशिखः पावनो नः पुनातु ॥ १५ ॥
स्रस्तव्यालोलकेशे ततकरचरणच्छादिताशावकाशे
त्रासव्यात्तास्यगर्तप्रकटितविकटाक्रन्दितोद्धोषघोरे ।