पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
काव्यमाला ।

पाण्डुत्वमावहति भस्मकृतिं विनाङ्गे
धूमं विना च नयनाश्रुनिपातहेतुः ।
शंभो विना ज्वलति चेन्धनमद्भुतं त-
त्तस्यास्त्वदीयविरहप्रचितो हुताशः ॥ ८ ॥
याचे भवन्तमिदमद्य जटाकलापे
पूर्णं निधेहि शशिनं विकलं विहाय ।
दैन्यं च ते विकलचन्द्रपरिग्रहोत्थं
तस्याश्च मा भवतु दुर्विषहोऽद्य तापः ॥९॥
यत्तादृशं मयि तथा प्रणिपातदैन्यं
सख्या गिरीशसहितेऽत्र निनादमेतत् ।
सद्यस्त्वया च नरनैपुणरूढयैव
यन्निद्रया निशि विभो प्रणयव्यवायः ॥ १० ॥
त्वां याचते मम सखी निशि मन्निकेत-
मागम्यतामिति पुरार्दन मन्मुखेन ।
नातः परं मृगदृशामभिमानभङ्गो
लभ्येत चेदभिमतं ननु सोऽपि मह्यम् ॥ ११ ॥
मघ(ध्य)स्थितिं तव मनोभवपीडितायां
याचे न पक्षपतनं चिरजीवसख्याम् ।
एतावतैव हि भविष्यति काम्यसिद्धि-
र्माध्यस्थ्यमातुरजनेष्वपि पक्षपातः ॥ १२ ॥
आश्लेषणं तव सुदुर्लभमस्तु शंभो
सख्याः प्रयच्छ ललितं तव बाहुमूलम् ।
तस्या गले विनिहिता(?)मसवः प्रयाणे
प्रारम्भिणी(?) पुनरिमं न विलवयेयुः ॥ १३ ॥
गौरीकुचार्पणमहावलयाहिधन्ये
कण्ठेन तेऽन्यवनिताजनसङ्गमोहः ।