पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५ पद्धतिः
१५१
भिक्षाटनकाव्यम्


तत्र स्व(त्व यार्पितमवेक्ष (नवेन) भुजंगमेन
तस्या भुजोऽपि घटतामिति नाथ याचे ॥ १४ ॥
कुर्वन्तु तापमवरे विरहाः परेषां
याच्याविभञ्जनमिदं तव नैव युक्तम् ।
शंभो यतस्त्वमपि वेत्सि विरोहभिक्षुं
नित्यं सुदुर्विषमयाचनभङ्गपीडाम् ॥ १५ ॥
त्वत्संश्रुतापि भवतैवमुपेक्षिता चे-
त्सा नः सशेः(?) वरद हन्त तवैव हानिः ।
यन्नीलिमा तव गले सहसैव जस्यात् (?)
कारुण्यहेमनिकषोपलशैललक्ष्मीः ॥ १६ ॥
सा पद्मचारुनयना विषमेक्षणस्त्वं
सा कुञ्चितालकभरा हर धूर्जटिस्त्वम् ।
सा सद्गुणैकवसतिर्गुणवर्जितस्त्वं
तस्यास्तथापि किमिदं तब दुर्लभोऽसि ॥ १७ ॥
या वीक्ष्य नाथ गरलं तव कण्ठमूले
या पन्नगेन्दु(न्द्र)मपि तत्र पुरा निनिन्द ।
जातस्पृहैव भगवन्भवतीयमात्रे(र्ता)
पापादियं न सहते विरहं त(त्व)दीयम् ।। १८ ॥
कामं वृथा भवतु मे त्वयि कामदौत्यं
प्रष्टव्यमेतदभिधेहि पिनाकपाणे ।
तस्यारतथा स्मरशरैर्विहितप्रहारे
चित्ते वसन्नपि कथं त्वमकामविद्धः ॥ १९ ॥
गङ्गापयः सकलमेव कपर्दकोणे
सद्यो विलीनमिति नाथ कियान्मदस्ते ।
सामर्थ्यमस्ति यदि ते नयनाम्बुपूरः
सख्यास्त्वदीयविरहप्रचितो निवार्यः ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये दूतीवचन पद्धतिः पञ्चत्रिंशत ।