पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रामचापस्तवः ।

अब्धेर्लब्धतरङ्गमङ्गलमृदङ्गारावधारावता-
त्सीतावल्लभचापवल्लिरुदयल्लीलामतल्लीसखी ॥ ३८ ॥
मौर्वीविद्धशराग्निदग्धकमठीपाठीनगाढोल्लुठ-
त्कल्लोलोद्भटपूरपूरणरणत्पर्यन्तगिर्यन्तरे ।
अप्राप्तप्रतिबिम्बडम्बरवपुःसिन्धौ कबन्धद्विषः
कोदण्डं गुणमण्डितं मम शुचः स्यात्खण्डने पण्डितम् ॥३९॥
ज्याविक्षिप्तपृषत्कवल्गदनलक्काथोद्भवद्बुद्बुद-
क्षारक्षीरधिपाचिताचिततिमिक्रव्यग्रहव्यग्रया ।
त्रासत्यक्तनिवासमब्धिजठराद्दूरे वधूरेखया
साकं कैकसलोकमाकलितवद्देवस्य सेवे धनुः ॥ ४० ॥
लङ्कातङ्कविशङ्किशंकरगिरिप्रक्षोभिरक्षोऽभितो-
निक्षिप्ताप्तनिशाटपाटनपटुस्फोटप्लवङ्गच्छटे ।
विष्वग्विष्वणदिष्वरिष्ववतरज्जन्ये रजन्येधिते
मन्ये धन्व शमन्ययाय(?) हृदये मान्यस्य धन्विप्रभोः॥ ४१ ॥
नन्दन्निर्जरवृन्दमुक्तकुसुमैः सुग्रीवविग्रीकृत-
प्रक्रान्ताहवकुम्भकर्णदुरवापामन्दगन्धग्रहैः ।
सामोदं मनसा मनूद्वहधनुर्ज्याटंक्रियान्धोरग-
द्वन्द्वान्योन्यदुरीक्षकेलिविरसाधोलोकमालोकये ॥ ४२ ॥
सक्रोधप्लवगाग्रणीनखरदश्रेणीनिकृत्तश्रवो-
नासत्रासदकुम्भकर्णवदनव्यालोककालोचितम् ।
कर्तुं योऽक्षिसहस्रमीलनमलं नासीत्तदा सीदत-
स्तस्येन्द्रस्य मनोरथप्रदशरं चापं प्रभोश्चिन्तये ॥ ४३ ।।
हेषामश्वगणस्य बृंहितमिभव्यूहस्य चक्रक्रम-
क्रेकारं रथमण्डलस्य समरे क्ष्वेलां भटानामपि ।
भेरीभांकृतिमायुधव्यतिकरध्वानं पृथङ्मागध-
स्तोत्रोद्धोषमपि ज्यया परिभवद्देवस्य वन्दे धनुः ॥ ४४ ॥