पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० पद्धतिः]
१११
भिक्षाटनकाव्यम्

तस्यैव सा हृदयदेशजुषा गरिम्णा
गेहप्रवेशमशकन्न पुनर्विधाना ॥ १० ॥
नाथे चिरेण पतितामनिवर्त्य बुद्धिं
काचित्स्वयं निववृते गुरुवश्यबुद्धिः ।
तस्याः पुनर्बहुविचारसखीं विनैव
बुद्धिं कृतं मदनु(?)हास्यमभूच्चरित्रम् ।। ११ ॥
काचित्कथंचिदपि नैव गृहं विवेश
रथ्यां विहाय बहुभिः कृतसान्त्वनापि ।
कामातुरस्य हृ(ह)तबन्धुजनावकीर्णे
कारानिवाससम एव गृहे निवासः ॥ १२ ॥
गेहं प्रविश्य पुनरप्ययमागतस्य (:स)
वीथ्यां वृषाङ्क इति कापि विनिर्जगाम ।
रथ्यासु भैक्षचरणादपरं न कृत्यं
तस्योरसो मृदुमना गणयांचकार ।। १३ ॥
काचित्प्रदक्षिणवि(नि)दर्शनदुर्बलाङ्गी
वीथ्यां निपात्य निजभूषणमेकमेकम् ।
यावद्गृहोपगमनं ननु तावदेव
रथ्यावशेषसकलाभरणा बभूव ।। १४ ॥
वीथ्या कथंचन गृहं वचनप्रभेदैः
प्रावेशयद्विरहिणीं प्रियबन्धुवर्गः ।
चित्तं तदीयमसमाक्षि(क्ष)विरक्तपाशं(?)
नालं प्रवेशय(यि)तुमेव पुनर्बभूव ॥ १५ ॥
काचिद्विवेश शयनालयमाप्तसख्या
रथ्यां विहाय हरवीक्षणहानिदूना ।
तस्या मनश्च विरहव्यथया सहैव
श्रीकण्ठसंगममहोत्सवलम्भचिन्ताम् ॥ १६ ॥