पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२
काव्यमाला ।

हस्तच्युतैश्च बलयैश्चिकि(कु)रप्रमुक्तैः
पुष्पैश्च यावकरसैश्च पदाग्रमुक्तैः ।
कीर्त्यैश्च भा(हा)रमणिभिर्गिरिशस्य रथ्या-
माकल्प्य कापि शनकैर्वसतिं विवेश ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गृहप्रवेशपद्धतिविंशतिः ।

एकविंशी पद्धतिः ।

आलोक्य मारजनितां कृपणामवस्थां
वामभ्रुवां निजगृहं पुनरागतानाम् ।
संदूयमानहृदयो हितवन्धुवर्गो
यान्यप्यवोचत वचांसि वदामि तानि ॥ १ ॥
हा हन्त दग्धमदनस्तव पुष्पशय्या-
शेषं शरीरमकरोदसहाय एव ।
रात्रावथास्य नवकैरवगन्धबन्धु-
मन्दानिलप्रभृतयो बहवः सहायाः ॥ २ ॥
कालानलो यदलिकाङ्क्षि(क्ष) णिरक्षितोऽभू-
त्कण्ठे च यद्गरलमर्पितमीश्वरेण ।
तत्सर्वमात्मविरहे सति बालिकानां
तापं विधातुमिति संप्रति मे वितर्कः ॥ ३ ॥
अस्या हरेण विरहादतिकर्शिताया
हस्तच्युतं वलयमेतदलब्धदेशम् ।
आस्ते पुनः स्थितिमगादयमङ्गुलीयं
स्थानाच्युतिं मम ह एव भवत्यनर्थः ॥ ४ ॥
अज्ञातमद्य तनये त्यज शोकशङ्कुं
पञ्चायुधः किमपि तत्त्वयि जातकोपः।
रागो नवश्चरणयोरनुजातजन्मा
मुक्तावली विरचिता नयनाम्बुलेशैः ॥ ५ ॥