पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९ ॥ वितरति विहिता यथाकथंचिजिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषाद्दिशति सुखानि यशो धनं जयं च ॥४०॥ इति श्रीधनंजयकृतं विषापहारस्तोत्रम् ॥

श्रीभूपालकविप्रणीता जिनचतुर्विंशतिका। श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रदं प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्घ्रिद्वयम् ॥ १॥ शान्तं वयुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्सलरेन्दसान्द्र- च्छायामहीरुह भवन्तमुपाश्रयन्ते ॥ २ ॥ स्वामिन्नद्य विनिर्गतोऽसि जननीगर्भान्धकूपोदरा- दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । त्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी- नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ॥ ३ ॥ निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली- सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क्व च निःस्पृहत्त्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ ४॥ १. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता, तत्र टीकायां तत्कर्तुर्नाम नास्ति, २. पण्डिता. ३. रुन्दा विस्तीर्णा. ४, सिंहासनस्य.