पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। शक्योद्धाटं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३ ॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता- त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तैरगाधैः । तत्कस्तेन व्रजति सुखतो देव तत्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ १४ ॥ आत्मज्योतिर्निधिरनवधिर्द्रष्टुरानन्दहेतुः कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः स्तोत्रैर्बन्धप्रकृतिपरुषोदामधात्रीखनित्रैः ॥ १५ ॥ प्रत्युत्पन्नानयहिमगिरे रायता चामृताब्धे- र्या देव त्वत्पदकमलयोः संगता भक्तिगङ्गा । चेतस्तस्यां मम रुजिवशादाप्लुतं क्षालितांहः- कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥ १६ ॥ प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा । मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेषरूपां दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ १७ ॥ मिथ्यावादं मलमपनुदन्सप्तभङ्गीतरङ्गै- र्वागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते । तस्यावृत्ति सपदि विबुधाश्चेतसैवाचलेन व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ १८ ॥ १. तत्वैः सप्तसंख्यैरवभासते यः. २. 'प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतयः' इति टीका. ३. स्याद्वादनयहिमाचलात्. ४, स्यादस्ति, स्थानास्ति, स्यादस्ति नास्ति, स्थादवफव्यम् , स्वादस्त्यवक्तव्यम् , स्थानास्त्यवतन्यम् , स्यादति च नास्ति चाव- सव्यं न इति सत भनाः स्याद्वादनये प्रसिद्धाः. ५. घेतोपपर्वतेनावृत्ति मथनम्,