पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९४
काव्यमाला ।

कालेन सा हर्षपुरीं प्राप्ता तस्मै महीभुजे ।
प्रदर्शिता मन्त्रिवरैस्तत्सत्तीव्रतविस्मितैः ॥ ६३९ ॥
सोऽपि तां प्रत्यभिज्ञाय तं च रुग्णं मयाकुलः ।
राजा स सर्वं वृत्तान्तं सचिवेभ्यो न्यवेदयत् ॥ ६४० !!
तौ निरस्य विरक्तोऽथ लक्ष्मीसेनोऽभवन्मुदा ।
विपुले राज्यसारेऽपि ललनाविपुलाशयः ॥ ६४१ ॥
इति लक्ष्मीसेनाख्यायिका ॥ ४३ ॥
गोमुखेनेति कथितं श्रुत्वा वत्सेवरात्मजः ।
प्रभाते निजमुद्यानं ययौ चिरहनिःसहः ॥ १४२ ॥
ततो विद्याधराधीशः समेत्य प्रमदाकुलः ।
तां सुतां शक्तियशसं ददौ तस्मै सुलोचनाम् ॥ ६४३ ॥
अथ दिव्योचितोत्साहविपुलोत्सधशालिनीम् ।
तया नरेन्द्रपुत्रस्य विवाहश्रीरवर्तत ॥ ६४४ ॥
परिणीयेन्दुवदनां प्रहृष्टः पितुराज्ञया ।
विललास स्मरस्मेरो विलासोपवनेषु सः ॥ ६४५ ॥
विद्याधरीप्रणयिनं सुतमाकलय्य
वत्सेश्वरः किमपि हर्षसुधार्द्रचेताः
देवीसखस्त्रिनयनार्चनकल्पवृक्ष-
सूतः फलस्य कुसुमोदतिमभ्यमस्त ॥ ६४६ ॥
इति क्षेमेन्द्रविरचितायां बृहत्कथामञ्जयाँ शक्तियों नाम पोडशो लम्बकः ।
महाभिषेकलम्बकः ।
नवकुचकाञ्चनकलशाः श्रोणीसिंहासनाः सितच्छत्राः ।
अभिषेकाय तरुण्यो यस्य स मकरध्वजो जयति ॥ १ ॥
अथ विद्याधरोऽन्येत्य प्रतीहारेण सूचितः ।
व्यजिज्ञपत्समासीनं प्रणम्य नरवाहनम् ॥ २ ॥


प्रपमित