पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-रूपशिखाख्यायिका ।
४९३
बृहत्कथामञ्जरी


ततो रूपशिखाभिख्या पितरं सा व्यजिज्ञपत् ।
दृष्टो मया समुचितो वरस्तस्मै प्रयच्छ माम् ॥ २९६ ॥

इति पुत्रीवचः श्रुत्वा तं च दृष्ट्वा तथेति सः ।
सुतामग्निशिखः प्राह तद्वञ्चनसमुद्यतः ॥ २९७ ॥

राजपुत्रं समवदत्वैरं रूपशिखा ततः ।
भगिन्यो मम पञ्चाशत्सन्ति तुल्या विधाय ताः ॥ २९८ ॥

त्वां ततो वक्ष्यति ज्ञात्वा गृहाण दयितामिति ।
मुक्तावल्यो गले सन्ति सर्वासामेव किं त्वहम् ॥ २९९ ।।

कण्ठान्मूर्ध्निं विधास्यामि तत्क्षणान्मौक्तिकावलीम् ।
तया मां प्रत्यभिज्ञाय प्राप्स्यसि प्रौढकिल्बिषः ॥ ३०० ॥

न च त्वां वञ्चकस्तातः संशये पातयत्यसौ ।
तिलखारीशतं क्षेत्र क्षिप्त्वा क्षिप्रमिति प्रभो ॥ ३०१॥

त्वं संक्षिपेति च पुनस्त्वां वक्ष्यति सुलोचनः ।
प्रेयिष्यति धोरस्य भ्रातुर्धूमशिखस्य च ।
गृहं निमन्त्रणाय त्वां मृषा वैवाहकोत्सवे ।। ३०२ ॥

इत्येतास्त्वविनाशाय मायातातेन कल्पिताः ।
मद्विद्र्यारक्षिताः सर्वास्तव धैर्यमहोदधे ॥ ३०३ ॥

इति प्रियावचः श्रुत्वा सर्वः शृङ्गभुजोऽभ्यधात् ।
यथोक्तं रूपशिखया तेन रक्षः स्मयं ययौ ॥ ३०४ ॥

ततः प्रभाते तां पित्रा परिणीय समर्पिताम् ।
तत्र तस्थौ दिशल्लीलाविलासे मदनोत्सवम् ॥ ३०६ ।।

हेमकाण्डं ततः प्राप निजवल्लभयार्पितम् ।
भ्रातृभिर्यत्कृते दूर द्वेषायुक्त्या विवासितः ।। ३०६ ॥

कदाचिदय सोत्कण्ठः पितुर्मातुश्च दर्शने।
वयो शृङ्गभुजः कान्तां समादाय तुरङ्गमैः ॥ ३०७ ॥