सत्यासत्यविभागेन मन्दशोकां महीपतिः ।
तामाह मासानष्टौ त्वं सहखान्धगृहव्यथाम् ॥ २८३ ।।
राज्ये ममायुषि च ते प्रतिकूलं समुत्थितम् ।
दैवज्ञेनाथ कथित त्वक्लेशेन प्रणश्यति ।। २८४ ॥
इति राजवचः श्रुत्वा सा तथेत्याह दुःखिता ।
भर्तुरभ्युदयैकाग्रसंकल्पा हि कुलाङ्गनाः ॥ २८६ ॥
अत्रान्तरे महाकायो बहुरूपी निशाचरः ।
आयादग्निशिखो नाम तं देशं लोककण्टकः ॥ २८६ ।।
दैवज्ञवचनाज्ज्ञात्वा खेलन्तो राजसूनवः ।
चिक्षिपुरतं समुद्दिश्य बाणास्ते चाफला ययुः ॥ २८७ ।।
ततः शृङ्गभुजो वीरः शृङ्गमादाय काञ्चनम् ।
रक्षो जघान तद्वीक्ष्य पूरे लज्जान[१]ति ययुः ॥ २८८ ॥
ईर्ष्याकलुषितस्तत्र मात्रा पूर्वं च बोधितः ।
नि[२]र्वासभुजनामा त सभ्रूभङ्गमभाषत ॥ २८९ ॥
अयं तातस्य दयितो भ्रातः कनकसायकः ।
क्षिप्तस्त्वया शरीराग्रमग्नो नीतश्च रक्षसा ।। ९९० ॥
एतन्न क्षमते तातः शरं हैमं प्रयच्छ [३]तम् ।
नो चेत्त्वदुपरि भातर्वयं मर्तुं समुद्यताः ॥ २९१ ।।
इत्याकृष्टः स तैर्द्वेषात्सानुबन्धो निरुत्तरः ।
ययौ शृङ्गभुजो रक्षारक्तधारां समुन्नयन् ॥ २९२ ॥
ततो धूमपुरं नाम नगरं तस्य रक्षसः ।
प्रविश्य तत्सुतां कान्तां ददर्श हरिणीदृशम् ।। २९३ ॥
सापि तं वीक्ष्य सहसा यौवनस्येव यौवनम् ।
अभिलाषवती मेने मन्मथस्यापि मन्मथम् ॥ २९४ ॥
परस्परकर्था ज्ञात्वा तौ संजातमनोभवौ ।
मिथो जीवितसर्वस्वपदे विविशतुः क्षणात् ।। २९५ ॥
१. "ता" ख । २. ’निर्वस्य भुजनामानं" ख । ३. "न्" ख. ॥
4973
र निर्वास्य भुजमामानं ख.. ३..ना.