अथासूत पुनर्देवी तनयामतनुद्युतिम्
सत्संगतिरिव प्रीतिं मञ्चगुप्तेरिवाश्रयम् ॥ ७२ ॥
रत्नप्रभाभिधानाभूत्कन्यकासौ. मनोभुवः ।
रत्नमालेव विहिता वेधसा वि[१]हितैर्गुणैः ॥ ७३ ॥
वनप्रभोऽयं युतिमान्युवा क्षीरोदवासिनः ।
पुत्रीममृतवर्णस्य प्रापामृतवती वधूम् ॥ ७४ ।।
विद्याधरेन्द्रतनयां स तामासाद्य सुन्दरीम् ।
बभार कान्तिं कामस्य रतिसंभोगशालिनः ॥ ७९ ॥
अथ हेमप्रभो दृष्ट्वा पुत्रमारमगुणाधिकम् ।
यौवराज्येऽभिषेच्याशु परां प्रीतिमवाप्तवान् ॥ ७६ ॥
साहं रत्नप्रभा नाम क[२]न्या हेमप्रभात्मजा!
अश्रौषं त्वद्यशः शुनं वर्ण्यमानं पितुर्गुहे ॥ ७७ ॥
तवो मां भृशसंतप्तामभिलाषवशीकृताम् ।
उवाच पार्वती स्वप्ने पुत्रि मा विप्लवा भव ॥ ७८ ॥
प्रातस्त्वं नरवाहेन मुहूर्ते शुभलक्षणे ।
स्वयं गत्वा तदुद्देशं पाणिग्रहणमास्यसि || ७९ ।।
[३]इति स्वप्ने यथादिष्टं देव्या मात्रे न्यवेदयम् ।
तद्विरा स्वामिहस्यं च प्राताहं विद्यया प्रभो ॥ ८०॥
उक्त्वेति लज्जाललितक्षामाक्षरविसंस्थुला।
नतानना महीं चक्रे इशा नीलोत्पलाकुलाम् ॥ ८१ ॥
मुखाञ्जसौरभाकृष्टगुञ्जमरविभ्रमम् ।
रत्नप्रभावचः श्रुत्वा जहर्ष नरवाहनः ।। ८२ ॥
ततः समाययौ व्योम्ना हेम्ना संपूरयन्निव ।
दिशो महिम्ना वपुषः श्रीमान्हेमप्रभः स्वयम् ॥ ८३ ॥
मौलिरत्नोज्ज्वलालोको वत्सराजेन पूजितः ।
भेजे कुण्डलकेयूरकान्तिपिङ्गं[४] से तत्सभाम् ॥ ८४ ।।
१."फुलै" ख । २. "देव" स्व । ३."प्रात" ख । ४. "ङ्गा" स्त.
'पुलै स.देव' स... 'प्रात: स्व. ४. 'ना खा.