इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्यधात् ।
तस्यैव वाक्याद्विप्रं तं विधायान्तरधीयत । ४८॥
ततः स्वनगरीं मत्वा महासत्वो महीपतिः ।
इन्दीवरप्रभासक्तश्चचारोद्यानभूमिषु ॥ ४९ ॥
धातुवादी ततोऽभ्येत्य धातुशर्माभिधो वचः ।
तमभ्यथादहं ताम्रं विदधे देव काञ्चनम् ॥ ५० ॥
हेमकार समाहूय द्राविते शुल्वपिण्डके ।
स्वैरं राज्ञा समादिष्टो बहु चिक्षेप चूर्णकम् ।। ५१ ॥
हृते यक्षकुमारेण तत्र चूर्णे मुहुर्मुहुः ।
न तत्कनकतां प्राप विघ्नेनादृश्यमूर्तिना ॥ ५२ ॥
नरेश्वरोऽथ चिक्षेप चूर्णं तत्कौतुकात्स्वयम् ।
तच्चूर्णपातात्सर्वं तत्प्रययौ जातरूपताम् ॥ ५३ ॥
इत्येवं शुद्धसत्त्वानामनपेक्षितसंयमाः ।
भवन्ति सिद्धयो देव त्वं च सत्त्ववतां वरः ॥ ५४ ॥
इति महासत्वाख्यायिका ॥ २ ॥
इति कान्तावचः श्रुत्वा हृष्टो विद्याधरेश्वरः ।
मनःप्रसादादासनं पुत्रलामममन्यत ॥ ५५ ।।
ततः प्रयतवाञ्चित्तः शुचिर्जयपराक्रमः ।
दर्भानास्तीर्य तुष्टाव स सभार्यो महेश्वरम् ॥ ६६ ॥
ॐ नमः सप्तसंकल्पपूरणाकल्पशाखिने ।
कुमारगुरवे शुभ्रभोगमोक्षफलश्रिये ॥ ५७ ॥
नमचिद्ग[१]नाभोगमासिने बोधभास्वते ।
अविभिन्न[२]स्वभावाय भवायाभयदायिने ॥ ५८ ॥
नमः प्रकाशव्याकोशहृत्कुशेशयशालिने ।
शिवाय शमिताशेषदोषायाविषयस्पृशे ॥ ५९ ॥
१. त्राङ्गना ख । २. "चिन्त्यस्व" ख.
'त्राङ्गना ख. २. चिन्त्यस्व.