पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
काव्यमाला।

 आस्ये धास्यति कस्स लास्यमधुना धन्यस्य कामालस-
  स्वर्वामाघरमाधुरीमधरयन्वाचां विलासो मम ॥१॥

विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत् । तेन सहृदयैर्न मनागपि विमनायितव्यम् । भावध्वनिश्चायम् । उत्तरार्धप्रतिपादार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतवि- न्तायाः प्राधान्येनाभिव्यक्तेः । अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलंकारः । का- मालसत्वम् वामाविशेषणमघरमाधुरीप्रकर्षकम् ॥

 विद्राणैव गुणज्ञता समुदितो भूयानशूयामरः
  कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिंभरिः ।
 एवं भावनया मदीयकविते मौनं किमालम्बसे
  जागर्नु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ २ ॥

कविगतराजविषयकरतिभावध्वनिश्चायम् । इत ऊर्ध्वमयमेव आ चरमपद्ममनुवतिष्यते । अस्य चात्र मौनानुभावितो वर्गनीयालम्बनो निर्वेदो गुण इति प्रेयोलंकारास्पदम् । अत्र चाचेतनायां कवितायां चेतनस्वाध्यवसायमूलासंबन्धे संपन्धामिकातिशयोक्तिर्विवक्षिता। तेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपतिः ॥

 पारीन्द्राणां धुरीणैरवनितलगुहागर्भतः संपतद्भिः
  स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
 त्वत्प्रस्थानान्तरुद्यत्पलयजलघरध्वानधिकारधीरो
  धृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३ ॥

 अन्न राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहाग- भोत्पतनामिव्यसनामर्षेण संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषयकरतिभावाङ्गत्वाद्रसालंकारत्वम् । यदाहुः--'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तसिन्नलंकारो रसादिरिति मे मतिः ॥ इति । तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयो ।वृष्टशब्देन तादृशनादो वेलाचलप्रतिबद्धत्वादोन गतः । अन्यथा लोकालोकाप्वलमपि स्पृशेदिति गम्यते । एवं सृष्टेति नोक्तम् । तथा सति शैथिल्यप्रत्ययापत्तः ॥

 किं[१]ब्रूमस्तव वीरतां वयममी यसिन्धराखण्डल
  क्रीडाकुण्डलितभ्रु शोणनयन दोर्मण्डलं पश्यति ।


 १. उदाहतोऽयं श्लोको रखगङ्गाधरे प्रपमानने. "हे पुम्बीन्द्र,अस्मिन्त्वयि यि क्रीडया
तस्यां वा कुण्डलिले भ्रुबौ शोणनयने च यस्य तस्मिन्सति तसिम्मति । दोर्मण्डलं दोर्युग्मं पश्यतिक
सति । तत्कालं तसिमिन्नेव समये । रकमणिसमूहकान्तिमिश्रितैर्भूषणानन्तसमूहविग्या