पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
प्राणाभरणम् ।

    
पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् ।
कीर्तिः संसारेऽसिन्सा[१]रतरा सर्वलोकानाम् ॥ ३८ ॥ (कुलकम् )

ज्ञेयः कलाकलापे कुशलः सर्जार्थतत्त्वविज्ञानी ।
प्रवरतरो लोकेऽस्मिन्ब्राह्मण इव सर्ववर्णानाम् ॥ ३९ ॥

इत्युक्तं शतमेतद्यो वेत्ति शुभाशुभोदयकलानाम् ।
तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ ४०॥

उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः ।
किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ ४१ ॥

केलीमयः सितविलासकलाभिरामः

सर्वाश्रयान्तरकलाप्रकटप्रदीपः ।

लोकोपदेशविषयः सुकथाविचित्रो

भूयात्सतां दयित एष कलाविलासः ॥ ४२ ॥

 
कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः।
शशीव मानसानन्दं करोतु सततं सताम् ॥ १३ ॥

इति महाकविधीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः ।


[२]पण्डितराजश्रीजगन्नाथविरचितं

[३]प्राणाभरणम् ।

तत्कृतयैव टिप्पण्या समेतम् ।

 
विद्वांसो वसुधातले परवचः श्लाघासु वाचंयमा
 भूपालाः कमलाविलासमदिरोन्मीलन्मदापूर्णिताः ।


१. "सारतरा' इत्यस्य लिइविपरिणामेन सर्वत्रान्वयः, २. जगन्नाथपण्डितकृता
बहवो ग्रन्थाः सन्ति, तन्मध्याद्व्यावधि ज्ञाता अन्थास्वेते--(१) अमृतलहरी,
(२) आसफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्, (५) जगदाभरणकाव्यम्,
(६)पीयूषलहरी, (७) प्राणाभरणकाव्यम्, (८) भामिनीविलासः, (९) मनोरमाकुचमर्दम्,
(१०.) यमुनावर्णनचम्पः, (११) लक्ष्नीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधरः
३. कामरूपदेशाधीशस्य प्राणनारायणमहीपस्य सुतिरूपोऽयं ग्रन्थः

  1. 3