एते त एव मूषाः सुवर्णकाराः क्षितौ पुनर्जाताः।
जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥ २८ ॥
तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् ।
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ।। २९ ।।
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सुवर्णकारोत्पत्तिर्नामाष्टमः सर्गः।
नवमः सर्गः।
वञ्चकमाया महती महीतले जलधिमेखले निखिले ।
नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥१॥
सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् ।
वैद्या वेद्या: सततं येषां हस्ते स्थितास्तेऽपि ॥ २॥
एते हि देहदाहाद्विरहा इव दुःसहा भिषजः ।
ग्रीष्मदिवसा इवोग्रा बहुतृष्णाः शोषयन्त्येव ॥ ३ ॥
विविधौषधपरिवर्तैर्योगैर्जिज्ञासया स्वविद्यायाः ।
हत्या नृणां सहस्रं पश्चाद्वैद्यौ भवेत्सिद्धः ॥ ४ ॥
विन्यस्य राशि चक्रं ग्रहचिन्तां नाटयन्मुखविकारैः ।
अनुवदति चिराद्गणको यत्किंचित्प्रा[१]श्नि केनोक्तम् ॥ ५ ॥
गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः।
विविधभुजंगक्रीडासक्तं गृहिणीं न जानाति ॥६॥
प्रथम स्ववित्तमखिलं कनकार्थी भस्मसात्कृत्वा ।
पश्चात्सवनान् रसिकान्विनाशयत्येष वर्णिकानिपुणः ॥ ७॥
शतवेधि सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः ।
इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥ ८॥
ताम्रघटोपमशीर्षो धूर्ती हि रसायनी जराजीर्णः ।
केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥९॥
प्रह्लादनशुचितारकशम्बररमणीजनेऽपि बद्धाशः।
बिल्वादिमिरतिकामी हुत्वा धूमान्धतामेति ॥ १०॥
१. प्राश्निकः कार्यार्थं प्रश्नकर्ता
- ↑ १