अर्चयति देवविप्रान्नपति गुरून्वेत्ति निर्धनो मित्रम् ।
कठिनोऽपि लोह पिण्डस्तप्तः कर्मण्यतामेति ॥ ३२ ॥
व्यसनपरितप्तहृदय स्तिष्ठति सर्वः सदाचारे ।
विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥ ३३ ॥
ऐश्वर्यार्थी भगवन्नाशापाशेन लम्बमानोऽसौ।
कुरुते पर सपयाँ प्राप्ताओं दृश्यते न पुनः ॥ ३४ ॥
स्वार्थार्थिनः प्रयत्ताः प्राप्तार्थाः सेवकाः सदा विफलाः ।
नहि नाम जगति कश्चित्कृतकार्यः सेवको भवति ॥ ३५ ॥
देव प्रासादेऽस्मिन्फलजलकुसुमादिभोगसामग्रीम् ।
पूर्णे जाते कितवे विजने नान्ये करिष्यन्ति ॥ ३६ ॥
तस्मात्पुण्यायतने कितवं संरक्ष सेवकं सततम् ।
वरदानमस्स भगवन्निर्वासनमात्मपूजायाः ॥ ३७ ॥
श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः ।
तं पप्रच्छ पिनाकी कस्त्वं तत्वेन मे कथय ॥ ३८ ॥
इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् ।
मगधेनामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥ ३९ ॥
स्नानजपव्रतनिरतस्तीर्थरतो विदितसकलशास्त्रार्थः ।
त्यक्त्या भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ ४० ॥ (युग्मम् ।
आकर्ण्यैवं भगवानूचे कायस्थ एवं सत्यं त्वम् ।
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ ४१ ॥
इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः ।
स्नात्वागताय तस्मै कितवाय बरं ददौ वरदः ॥ ४२ ॥
कृत्वा तकितवहितं पश्यत एवाशु तस्य शशिमौलिः ।
निष्कासितवास्तच्छिर उत्तमतममालिकापङ्क्तेः ॥ ४३ ॥
इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् ।
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ ४४ ॥
पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६९
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
काव्यमाला।
