पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६सर्गः]
६१
कलाविलासः।

हारितधनपशुवसनश्चौर्यभयाद्बन्धुभिः परित्यक्तः ।
बभ्राम महीमखिलां तीनव्यसनः पुरा कि[१]तवः ॥ १९ ॥

स कदाचिदाप पुण्यैरुज्जयिनीं तत्र मज्जनं कृत्वा ।
विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ २०॥
 
शून्यायतने गत्वा वरदं देवं सदा महाकालम् ।
उपलेपनकुसुमफलैर्निर्व्यापारः सिषेवे सः ॥२१॥

स्तोत्रजपगीतदीपैर्विपुलध्यानैर्निशासु निर्निद्रः ।
तस्थौ तत्र च सुचिरं दुःसहदौर्गत्यनाशाय ॥ २२ ॥

तस्य कदाचिद्भत्त्या शुभशतकृतथा प्रसादितः सहसा ।
भवभयहारी भगवान्भूतपतिः संबभाषे तम् ॥ २३ ॥

पुत्र गृहाणेत्युक्ते देवेन कपालमालिना शिखरे ।
एकं कपालमसकृच्चक्रे संज्ञां पुरारातेः ॥ २४ ॥

अर्धोक्ते स्थगिततरः संपीडनसंज्ञया कपालस्य ।
तूष्णीं बभूव रुद्रो दारिद्र्यात्कि कतवपुण्यानाम् ॥ २५ ॥

स्नातुं याते तसिन्विजने देवः कपालमवदत्तम् ।
दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥ २६ ॥

अस्य कितवस्य साधोर्भक्तस्य चिरस्थितस्य वरदाने ।
कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥ २७ ॥

इति भगवता कपालं पृष्टं प्रोवाच समितं शनकैः ।
विषमनयनोष्मविगलन्मौलीन्दुसुधारसैर्जीवत् ॥ २८ ॥

शृणु भगवन्येन मया विज्ञप्तोऽसि खभावसरलात्मन् ।
सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ २९॥

एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः ।

दुःखी भवति तपस्वी धनरहितः सादरो भवति ।
भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ।। ३१॥


 १. द्यूतकारः