पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
काव्यमाला।

कि मौनं ननु मेनके किमु शुचं धत्से शचि क्षामता
केयं वाचि घृताचि [१]साचि किमिदं रम्भे मुखाम्भोरुहम् ।
याते त्वच्चरणामृते श्रुतिपथं गीर्वाणवामभ्रुवा-
मेवं देव खरस्मरज्वरजुषामुक्ताः सखीभिर्गिरः ॥ ४८॥

कि राकेन्दुकरच्छटाभिरुदितं किं मौक्तिकैरुद्गतं
किं मल्लीमुकुलैः स्मितं विकसितं किं मालतीकुङ्भलैः ।
किं रूढं रमणीविलासहसितैः किं तत्र कीर्ण सुधा-
स्यन्दैर्यत्र जगत्रयैकतिलक भ्रान्तं भवत्कीर्तिभिः ॥ ४९ ॥

नोद्दामानि दिशां मुखानि न धनागोगा नभोगण्डली
नैवोत्तालतलं रसातलभियं पृथ्वी न पृथ्वी पुनः ।
एवं देव कथं नु कुञ्जररदच्छेदावदातास्तव
खैरं यान्ति च मान्ति च श्रुतिसुधाधारामुचः कीर्तयः ।। ५०॥

यो वैरिष्वनलो नलो वसुमतीदीपो दिलीपोऽथ यो
यो मानेन पृथुः पृथुर्जगति यो निर्लाघवो राघवः ।
यः कीर्तौ भरतो रतो नृपगुणैर्यः [२]शंतनुः शंतनुः
संजाते त्वयि कस्य न क्षितिपते सर्वेऽपि ते विस्मृताः ॥५१॥

अपारपुलिनस्थलीमुवि हिमालये [३]मलये
निकामविकटोन्नते दुरधिरोहणे रोहणे ।
महत्यमरभूधरे गहनकंदरे मन्दरे
भ्रमन्ति न पतन्त्यहो [४]परिणता भवत्कीर्तयः ॥ ५२ ॥

तात्पर्य [५]कमलासने विरचितं [६]गौरीहितैः पालिता
त्रैलोक्याद्भुतकृ[७]त्प्त दानवजये दोर्विक्रमो दर्शितः ।



१. तिर्यक्. २. कल्याणशरीर. ३. लक्ष्मीनिवासभूते.
४ अन्य परिणतो वृद्धश्चेत्पर्वतारोहणावसरे पतल्येव.
५. कमलाया लक्ष्म्या असने क्षेपणे, याचकेभ्यो दान
इति यावत् अथ च कमलरूपे विष्टऎ ब्रह्मण्ःपद्मासनत्वात्
६. गौः पृथ्वी, देहितैरभिष्टैः (पक्षे)-गौरी पार्वती, हितैः प्रेमामिः,
७, सर्वदा नवीने गये; (पक्षे) स प्रसिद्धः, दानवानां जये.