पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
काव्यमाला।

[१]तन्वयाः सुतरां रतान्तसमये वक्त्रं रतिव्यत्यये
तत्त्वां पातु चिराय कि हरिहरस्कन्दादिभिर्दैवतैः ॥

अत्र तन्व्या रतिव्यत्यये लोलालकं चलत्कुण्डलं स्वेदसलिलेन किंचि- दुन्मृष्टतिलकं यन्मुख तत्त्वां पातु, कि हरिहरस्कन्दादिभिर्दैवतैरित्युक्ते पानतु त्वामित्यनुचितम्, आनन्दयतु त्वामित्युचितं स्यात् । अन्येषु का- व्याङ्गेष्वनयैव दिशा स्वयमौचित्यमुत्प्रेक्षणीयम् । तदुदाहरणान्यानन्त्यान्न प्रदर्शितानीत्यलमतिप्रसङ्गेन ।

आसीत्मकाशेन्द्र इति प्रकाशः काश्मीरदेशे त्रिदशेश्वरश्रीः ।
अभूद्धहे यस्य पवित्रसत्रमच्छिन्नमग्रासनमग्रजानाम् ॥

यः श्रीस्वयंभूमवने विचित्रे लेप्यप्रतिष्ठापितमातृचक्रः ।
गोभूमिकृष्णाजिनवेश्मदाता तत्रैव काले तनुमत्ससर्ज ॥

तस्यात्मजः सर्वमनीषिशिष्यः श्रीव्यासदासापरपुण्यनामा ।
क्षेमेन्द्र इत्यक्षयकाव्यकीर्तिश्चक्रे नवौचित्यविचारचर्चाम् ॥

श्रीरत्नसिंहे सुहृदि प्रयाते शार्वं पुरं श्रीविजयेशराज्ञि ।
तदात्मजस्योदयसिंहनाम्नः कृते कृतस्तेन गिरां विचारः ॥

यस्यासिः परिवारकृत्रिभुवनप्रख्यातशीलश्रुतेः
सर्वसावनतेन येन नितरां प्राप्ता विशेषोन्नतिः ।
आशाः शीतलतां नवत्यविरतं यस्य प्रतापानल-
स्तस्य श्रीमदनन्तराजनृपतेः काले किलाय कृतः ॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापराख्य श्रीक्षेमेन्द्रकृता- औचित्यविचारचर्चा समप्ता ॥






१. "तन्व्या सुत्सुरतान्ततान्तनयनम्" इत्यxxxxxxxxxxxxकेषु पाठः ॥