पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
काव्यमाला ।


अत्र शुकसारणाभ्यां रघुपतेरग्रे दशग्रीवपराक्रमेऽभिधीयगाने यदुक्तं पौलस्त्यः शेषशायिनं हरिमाकवारोद्योगश्रमवशेन संसक्तालस्यनिद्रमेक- त्रैलोक्याक्रमणैराहविजयिनां सुभटानां जपैरनेकरत्नप्राप्तिभिः समरस- मुद्रमध्ये बहुवारविहितैः श्रियः स्वयंवरशतैर्वलिनां च लोकपालानां बन्धनः प्रख्यातः सदोस्थितः सोत्साहः सततं हसतीति बहुवचनैरेव हरि- वैलक्षण्यलक्षणमुपचितमौचित्यमुदश्चित्तम् ॥ न तु यथा [१]मातृगुप्तस्य-

'नायं निशामुखसरोरुहराजहंसः
कीरीकपोलतलकान्ततनुः शशाङ्कः ।
आभाति नाथ तदिदं दिवि दुग्धसिन्धु-
डिण्डीरपिण्डपरिपाण्डु यशस्त्वदीयम् ॥'

अत्र नायं शशी, त्वदीयमिन्दुदुग्धाब्धि फेनपिण्डपाण्डुरं यश इति यदाभिहितं तदविच्छिन्नप्रसराणां यशसा बहुवचनेन वर्णनायां समुचिता- यामेकवचनोपन्यासश्चन्द्रबिम्बाकारेण पिण्डमात्रपरिच्छिन्नतया संकोचरूप- मनौचित्यमुद्भावयति ॥ विशेपणौचित्यं दर्शयितुमाह-

विशेषणः समुचितविशेष्योऽर्थः प्रकाशते ।
गुणाधिकैर्गुणोदारः सुहृद्धिरिव सज्जनः ।। २३ ॥

काव्ये विशेष्योऽर्थः समुचितैरेव विशेषणैः शोभां लभते । गुणोदारः साधुर्यथाभ्यधिकगुणैः सुहृद्भिः ॥ यथा मम मुनिमतमीमांसायां-

'चैत्रे सूत्रितयौवनान्युप वनान्यामोदिनी पद्मिनी
ज्योत्स्नाप्रावरणानि रत्नवलभीहर्म्याणि रम्याः स्त्रियः ।



१. षड्वर्षपर्यन्तमयं ब्राह्मणः कश्मीरवेशराज्यं कृतवान्, उज्जयिनीप्रभुणा हर्षापरनामा विक्रमादित्येनास्मै कदमीरराज्यं वितीर्णमित्यादिकया राजतऍरङिण्यां तदीगतरङ्गे द्रष्टव्या-