पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
औचित्यविचारचर्चा।

तेनाराधयता गुणस्तव जपध्यानेन रत्नावलीं
निःसङ्गेन पराङ्गनापरिगतं नामापि नो सह्यते ।'

अत्र वत्सेश्वरस्य रत्नावली विरह विधुरचेतसः स्मरावस्थासमुचितं विदू- षकेण सुसंगतायै यदभिहितं निद्रां न स्पृशति, धृतिं त्यजति, स्थितिं न घत्ते, दीर्घां कथां व्यथामिव वेत्ति, निवृतिं न भजते, तां विना तेन तद्गु- णजापिना तयाननित्येन जनसङ्गत्यागिनान्यासामङ्गनानां नाममात्रमपि न सह्यते । स्थितिधृतिकथानिर्वृतीनां स्त्रीलिङ्गाभिधानेनाङ्गत्वाध्यारोपेण परम- मौचित्यं प्रतिपादितम् ॥ न तु यथा मम नीतिलतायास्-

'वरुणरणसमर्था स्वर्गभङ्गैः कृतार्थी
यमनियमनशक्ता मारुतोन्माथसक्ता ।
धनदनिधनसज्जा लज्जते मर्त्ययुद्धे
दहनदलनचण्डा मण्डली मद्भुजानाम् ॥'

अत्र रावणः कपिनिकारामर्षविषमविकाराविष्कारोचितं ब्रूते । वरुणा- दिलोकपालविशालबलावलेपविप्लवकारिणी मयमात्रयुद्धे त्वज्जते प्रचण्डा मद्भुजमण्डलीति स्त्रीलिङ्गेन निर्देशस्त्रैलोक्यविजयोर्जितस्य प्रताप स्य कठोर- तामपहरन्ननौचित्यं सूचयति ॥ वचनौचित्यं दर्शयितुमाह-

उचितैरेव वचनैः काव्यमायाति चारुताम् ।
अदैन्यधन्यमनसां वदनं विदुषामिव ॥ २२ ॥

उचितैरेकवचन द्विवचनबहुवचनैः काव्यं चारुतामायाति । अदैन्यो- दारचेतसां विदुषामिव वदनमयाच्ञारुचिरौचित्यचारुभिर्वचोमिः ॥ यथा मम नीतिलतायाम् -

त्रैलोक्याक्रमणैर्वराहविजयैर्निःसंख्यरत्नाप्तिभिः
प्रख्यातः स्वरसस्वयंवरशतैर्युद्धाब्धिमध्ये श्रियः ।
साश्चर्यैबलिबन्धनैश्च बहुभिर्नित्यं हसत्युस्थितः
पौलस्त्यः सकृदुद्यमश्रमवशाद्व्यासक्तनिद्रं हरिम् ॥