पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
काव्यमाला।


वीरस्य क्रोधे विकारासंभवात् । प्रसन्नमधुरधीरा हि वीरवृत्तिः । तदुचि- तमनामिहितम् । भार्गवाभिभवेन च प्रधाननायकस्योत्कर्षः प्रतिपादितः ।। यथा वा राजशेखरस्य-

'स्त्रीणां मध्ये सलीलं भ्रमितगुरुगदाघातनिर्नष्टसंज्ञः
सद्यो वध्योऽभवस्त्वं पशुरिव विक्शस्तेन राज्ञार्जुनेन ।
तस्य च्छेत्तापि योऽसौ सकलनुपरिपुर्जामदग्र्यो भुजानां
जित्वोच्चैः सोऽपि येन द्विज इति न हतस्तापसस्त्वेष रामः ।।'

अत्र रावणकार्तवीर्यजामदग्न्यो त्कर्षोत्कर्षतरसोपानपरम्पराधिरोहणक्रमेण प्रधाननायकस्य प्रतापः परां कोटिमारोपितः ॥ न तु यथा भवभूतेः-

'वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्ततां
युद्धं स्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते।
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ।।

अत्राप्रधानस्य रामसूनोः कुमारलवस्य परप्रतापोत्कर्षासहिष्णो:रर- सोद्दीपनाय सकलप्रबन्धजीवितसर्वस्वभूतस्य प्रधाननायकगतस्य वीररसस्य ताडकादमनखररणापसरणान्यरणसंसक्तवालिब्यापादनादिजनपिहितापवादप्र- तिपादनेन स्ववचसा कविना विनाशः कृत इत्यनुचितमेतत् ।। भयानके यथा श्रीहर्षेस-----

'कण्ठे कृत्तावशेष कनकमयमधः शृङ्गलदाम कर्ष-
न्क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवाला !
दत्तातङ्कोऽङ्गनानामनुसृतसरणिः सम्रामादश्वपालैः
प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥

अपि च।

नष्ठं वर्षवरैर्मनुष्यगणनामावादकृत्या त्रया-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।