पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
औचित्यविचारचर्चा


अत्र क्रूरकोषस्थायिभावात्मकस्योन्निद्ररौद्ररसस्योचिता शिशुस्थविरगर्भ- गतविशंसननिस्त्रिंशकर्माध्यवसायाधिरोहणसंवादिनी द्रोणवधविधुरामर्ष विष- विषमव्यथाकश्मलशिथिलमश्वत्थाम्नः स्थेमानं प्रतिज्ञापयति ॥ न तु यथा [१]श्रीप्रवरसेनस्य---

'[२]दणुइन्दरुहिरलग्गे जस्स फुरन्ते णहप्पहाविछड्डे ।
गुप्पन्ती विवलाआ गलिअब्बथणंसुए महासुरलच्छी ॥'

अत्र क्रोधव्यञ्जकपदविरहिततया 'दनुजेन्द्ररुविरलग्ने थस्य नरसिंहस्य स्फुरति नस्वप्रभासमूहे व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका महासुरलक्ष्मीः' इति वर्णनया रुधिरलग्न इति बीभत्सरससंस्पर्शे व्याकुली- भवन्ती दैत्यश्रीः पलायितेति भयानकरससंकरेण प्रकृतोचितप्रधानभूतस्य रौद्ररसस्य कचिन्मुखमपि न दृश्यते ॥ वीरे यथा मम नीतिलवायाम्-

शौर्याराधितभर्गमार्गवमुनेः शस्त्रग्रहोन्मार्गिणः
संक्षेपेण निवार्य संक्षयमयीं क्षत्रोचितां तीक्ष्णताम् ।
आकर्णायतकृष्टचापकुटिलभ्रूभङ्गसंसर्गिणा
येनान्यायनिषेधिना शममयी बाह्मी प्रदिष्टा स्थितिः ॥'



१. अयं रावणवधापरनामकसेतुबन्धाख्यप्राकृतकाव्यस्य कर्ता प्रवरसेनः कश्मीर- महाराज मन्त्रीत. १२३ मिते ख्रिस्त्वस्वसंवत्सरेऽस्य राज्यप्रारम्भ इति बहूनां मतम्. कनि- ङ्गह्याममते तु ४३२ मिते ख्रिस्तवसंवत्सरे प्रवरसेनराज्यप्रारम्भः. 'कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥' इति हर्षचरितप्रारम्भ बाणभट्टः. 'महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुब- न्धादि यन्मयम् ॥' इति काव्यादर्शे (१।३४) आचार्यदण्डी॥ २. सेतुबन्धकाव्ये (१ । २) 'दनुजेन्द्ररुधिरलग्ने यस्य स्फुरति नखप्रभासमूहे । न्याकुलीभवन्ती विपलायिता गलितस्त. नांशुका महासुरलक्ष्मीः ॥ इति च्छाया.